नि अधि इत्येतौ चाञ्चतौ वप्रत्यये परतः प्रकृतिस्वरौ भवतः। न्यङ्, न्यञ्चौ, न्यञ्चः। उदात्तस्वरितयोर् यनः स्वरितो ऽनुदात्तस्य
८।२।४ इत्यञ्चतेरकारः स्वरितः। अध्यङ्, अध्यञ्चौ, अध्यञ्चः। अधीचः। अधीचा।
इगन्तार्थोऽयमारम्भः। "उदाततसवरितयोः" इत्यादि। निरुदात्तः "उपसर्गाश्चाभिवर्जम्()" (फि।सू।४।८१) इति, तेन तदकारस्थाने यो यणादेशः स उदात्तयण्()। तेन "उदात्तस्वरितयोः"
८।२।४ इत्यादिना ततः परमञ्चतेरकारः स्वरितो भवति। अध्यङित्यादौ तु न भवति; आदेशाद्युदात्तत्वात्(),
यणादेश उदत्तयण्? न भवतीति कृत्वा॥
समासस्वरापवादोऽयं योगः। "ईषत्कडारः" इति। "ईषदकृता"
२।२।७ इति समासः। यदायं प्रकृतिभावो न भवति, तदा समासान्तोदात्तत्वमेव भवति।
"ईषद्भेद इत्येवमादौ कृत्स्वर एव भवति" इति। परत्वादिति भावः। आदिशब्देन ईषत्कर इत्यादीनां ग्रहणम्()। "ईषद्()दुःसुषु"
३।३।१२६ इत्यादिना खल्()॥